१
सज्क्षालनायहरितां, विभूतये
लोकत्रयस्य, मदनाय धूर्जटेअः .
कात्यायनीवदनतः शनैः शनैः
निर्यन्ति शुभ्रहसितानि पान्तुनः ..

२
स्वल्पोऽपि दिक्क्षुकिरणान प्रसारयन
मन्दोऽपि बोधममलंदधत सताम.
शुभ्रोऽपि रागकृदनङ्गवैरिणो
हासः पुराणसुदृशः पुनातुनः..

३
चेतोहरोऽप्यतिजुगुप्सितोभवेत
सर्वोऽपि जीवकलयाययाविना.
सावर्ण्यतां कथ मपारचारुता
पीयूष सिन्धुरखिलेन्द्रसुन्दरी..

४
अत्यल्प देववनितांच पार्थिवै
र्भावैर्वयं तुलयितुं नशक्नुमः.
तां किं पुनः सकल देव सुन्दरी
लोकाक्षि पारण तनु प्रभामुमाम..

५
वर्षा पयोद पटलस्य सान्द्रता
सूर्यात्मजोर्मिचय निम्न तुङ्गता.
कालाहि भूमिपति दीर्घताचते
केशेषु भर्गभवनेश्वरि! त्रयम..

६
ईशानसुन्दरि! त वास्य मण्डला
न्नीचैर्नि तान्त ममृतांशु मण्डलम.
कोवान कीर्तयति लोष्टपिण्डकम
लोके निकृष्टमिह मानवी मुखात..

७
बिभ्रत्यमर्त्य भुवनस्थ दीग्घि का
पङ्केरुहाणि वदनायते बलिम.
नोचेत कथं भवति सौरभं महद
भिन्ने सुमेभ्य उरुकेशि! ते मुखे..

८
गीर्वाणलोकतटिनी जलेरुहाम
गन्धे शुभे भवतुते मनोरतिः.
लोकाधिराज्ञि! तव वक्त्र सौरभे
लोकाधिराज मनसस्तु सम्मदः..

९
कोभाषतां तव सवित्रि चारुतां
यस्याः स्मितस्य धवलद्युतिर्लवः.
यस्याः शरीररुचिसिन्धु वीचयः
सम्पालताः पृधुलदीप्तिभूमयः..

१०
लोकाम्बिके! नविलसन्ति केपुरो
मन्दस्मितस्य तवरोचिषां निधेः.
येतु व्यधायिषत तेन पृष्ठतो
हन्तैषुकाऽपि तिमिरच्छटा भवेत..

११
किं वारदावलिरुचिर्मुखस्य किं
सम्फुल्लता वरधियः किमूर्मिका.
सन्तोष पादपसुमं नु शङ्कर
प्रेमस्वरूप मुत देवि! ते स्मितम..

१२
दिक्क्षु प्रकाशपटलं वितन्वता
कोटि प्रभाकर विभक्त तेजसा.
नेत्रेणते विषमनेत्र वल्लभे
पङ्केरुहं क उमापति पण्डितः..

१३
श्रीकर्ण एष तवलोचनाञ्चले
भान्त्या दयादयितया प्रबोधितः.
एतं सवित्रि! ममकञ्चनस्तवं
श्रुत्वातनोतु भरतावनेः श्रियम..

१४
स्वानासिकाभवति युञ्जतांसतां
संस्तम्भिनीचलतमस्य चक्क्षुषः.
त्वन्नासिका पुरहरस्य चक्क्षुषः
संस्तम्भिनी भवति चित्र मम्बिके..

१५
बिम्बप्रवाल नवपल्लवादितः
पीयूशसार भरणाद गुणाधिकः.
गोत्रस्यपुत्रि! शिवचित्तरञ्जकः
श्रेष्ठो नितान्त मधराधरोऽपिते..

१६
दोर्वल्लिके जननि! ते तटित प्रभा
मन्दारमाल्य मृदुतापहारिके.
निश्शेषबन्धदमनस्य धूर्जटे
र्बन्धाय भद्रचरिते बभूवतु..

१७
हस्ताब्जयोस्तव मृदुत्वमद्भुतं
गृह्णाति ये सदय मेव धूर्जटिः.
अत्यद्भुतं जननि! दार्ढ्यमेतयोः
शुम्भादि दर्पविलयोययोरभूत ..

१८
राजन्तुते कुचसुधा प्रपायिनो
लोकस्य मात रनघाः सहस्रशः.
एतेषु कश्चन गजाननः कृती
गायन्तियं सकलदायि सत्करम..

१९
त्वन्नाभिकूपपतितां दृशं प्रभो
र्नेतुं विनिर्मलगुणे पुनस्तटम.
सौम्यत्वदीय हॄदयप्रसारितः
पाशः सवित्रि! तव रोमराजिका..

२०
त्वन्मध्यमो गगनलोक एवचेत
त्वद्दिव्य वैभवविदो न विस्मयः.
प्राज्ञैर्हि सुन्दरि! पुरत्रय द्विषः
त्वं देहिनी त्रिभुवनेन गीयसे..

२१
नाभिह्रदाद विगलितः कटीशिला
भङ्गात पुनः पततितिं द्विथाकृतः.
कान्तोरुयुग्ममिषतः सवित्रिते
भा वारिपूर इभशुण्डयोः समः..

२२
जङ्घायुगं तव महेशनायिकेः
लावण्यनिर्झरि जगद विधायिके.
अन्तः परिस्फुरदगुप्त सुप्रभा
बाणाढ्यतूणयुगलं रतीशितुः..

२३
पुष्पास्त्रशासननिशान्त राज्ञि! ते
लोकत्रयस्थखलकम्पनं बलम.
श्रोणीभरेण गमने किलश्रमं
प्राप्नोषिकेन तवतत्त्वमुच्यताम..

२४
यत्त्रैव नित्यविहृते रभूद रमा
राजीव मन्दिर चरीति नामतः.
तन्मेनदाभणतु मङ्गलं शिवा
पादाम्भुसम्भव ममेय वैभवं..

२५
केशादि पादकमलान्त गायिनीः
कन्तुप्रशासननिशान्त नायिका.
अङ्गीकरोतु ललिता इमाः कृती
र्गौरी कवेस्चरणकञ्ज सेविनः..