चतुर्थ-शतके तृतीय-स्तबकः 
(पञ्चदश-स्तबकः)


आपदामपहरन्तु ततिंनः
सम्पदामपि दिशन्तु समृद्धिम् |
दन्त कुन्द रुचि दत्तबलानि 
व्योमकेश सुदृशोहसितानि ||   १

अल्पमप्यधिक शक्ति समृद्धिम्
मन्द मप्यधिक सूक्ष्मविसारम् |
सुस्मितं स्मरविरोधि रमण्याः 
कल्पतां ममकुलस्य शुभाय ||   २

पुष्कराद् रविमतो भुवमेतां
भूमितश्शशधरं क्रममाणा |
नैवमुञ्चतिपदं बतपूर्वं
नोत्तरं प्रजतिनेशपुरन्द्री ||   ३

भूषणेश्विव सवित्रि! सुवर्णं
मृत्तिकामिव घटेष्वखिलेषु |
विश्ववस्तुषु निरस्तविशेषां
देवि! पश्यति सतींविबुधस्त्वाम् ||   ४

किट्टभूत मखिलेश्वरजाये!
दृश्यजातमखिलं निजपाते |
प्राण-बुद्धि-मनसा मिहवर्गः 
सारभूत इति सूरिजनोक्तिः ||   ५

सारमीश्वरि! तिलेष्विव तैलं
विग्रहेषु निशिलेषु निघूढम् |
येधिया मथनतो विदुरेकं
ते भवन्ति विबुधा स्त्वयि लीनाः ||   ६

आयसं त्रिभुवनेश्वरि! पिण्डम्!
वह्निनेव तपसा तनु पिण्डम् |
यस्यचिज्ज्वलन जालमयं स्यात् 
तप्तमम्ब! स त वालय भूतः ||   ७

योऽरणेर्मथनतोऽति पवित्रम्
वीतिहोत्रमिव वीतलकङ्कः |
प्राण मुज्ज्वलयति स्वशरीरात् 
त्वामसावभयदेहऽतियष्टुम् ||   ८

प्राणता श्वसितमेव विचार्यम्
कुर्वता करणमेव निभाल्यम् |
गच्छता गमनमेव विशोध्यम् 
तत्तनौ मथन मागम बोध्यम् ||   ९

योरसं पिबति मूर्धसरोजात्
सोमपोऽयमनघः प्रयतात्मा |
अग्निहोत्रमखिलेश्वरि! नित्यं
मूलकुण्ड दहनस्थिति रस्य ||   १०

चिन्मयी पिबसि सोममिमं किम्
सोम एव किमसा वसि मातः |
पीयसे पिबसि च स्वयमेका 
पेयपातृयुगलंकिमुभूत्वा ||   ११

तैजसं कनक मग्निवितप्तं 
तेज एव कनकाङ्गि! यथास्यात् |
मोदरूपकलया तवतप्तं
तन्मयं भवति मोदज पिण्डम् ||   १२

काऽपि मोदलहरी तववीचि 
र्निर्गता दशशतारसुधाब्धेः |
पूरयत्यखिलमम्ब! शरीरं
नेह वेद्मि परमे जडभागम ||   १३

सेयमुत्तमतमा निपतन्ती 
शीतलाद् दशशतार पयोदात.त |
प्रेरिता दखिलराज्ञि! भवत्या
बुद्धिसस्यमवता द्रसवृष्तिः ||   १४

दुग्ध सिन्धु मथना दमृतं वा
शब्दसिन्धु मथनात् प्रणवो वा |
लभ्यते सुकृतिभिस्तववीचि 
र्मूर्धकञ्ज मथनाद्रस एषः ||   १५

अस्थिषु प्रवहति प्रतिवेगं
मज्जसारममृतं विदधाना |
बिभ्रतीमदमनुष्ण मदोषं
मूर्धकञ्जनिलये तवधारा ||   १६

तैत्तिरीयकथितो रसलाभः
सोऽयमेव सकलागमवर्ण्ये!
एतदेव शशिमण्डलनाथे!
तन्त्रभाषित परामृतपानम् ||   १७

मूर्धसोममजरामर रूपे
युक्त वीक्षणकरेणनिपीड्य |
शम्भु सुन्दरि! सुनोमिधिनोमि
त्वां प्रदीप्तकुलकुण्ड निशान्ताम् ||   १८

दृष्टिरेव रविधीधिति रुग्रा
शीर्ष कञ्ज शशिनं प्रविशन्ती |
शीतलामृतमयीखलुभूत्वा
योगिनोद्रवति मोदकलाते ||   १९

मूर्धनि द्रवसि योगयुतानां 
चक्षुषि ज्वलसि शङ्करभामे!
तिष्ठसि स्थिरपदाकुलकुण्डे
बाह्यतः स्खलसि नैवकदाऽपि ||   २०

सा यदिद्रवति मोदकलास्यात्
सा यदि ज्वलति चित् कलिकास्यात् |
सा परा स्थिरपदा यदितिष्ठ-
त्यक्षरा भवति काचनसत्था ||   २१

पश्यता नयन मण्डलवृत्तिं
गृह्यसे त्वमचलाधिप कन्ये!
जानता दशशतार विलासं
स्पृश्यसे विदितमम्ब! रहस्यम् ||   २२

व्याप्तशक्त्यसुबलेन लसन्ती 
भानुबिम्ब नयनेन तपन्ती |
चन्द्रबिम्ब मनसा विहरन्ती 
सा पुनर्जयति मूर्ध्निवसन्ती ||   २३

स्वागतं सकललोकनुतायै
स्वागतं भुवनराज महिष्यै |
स्वागतं मयिभृशं सदयायै
स्वागतं दशशतार मितायै ||   २४

सत्कविक्षितिभुजो ललिताभिः 
स्वागताभि रनघाभि रिमाभिः |
स्वागतं भणितमस्तु भवान्यै
खेलनाय शिर एतदितायै ||   २५


|| इति उमासहस्रे पञ्चदश-स्तबकः ||