१ इतःपीत्वाकुचं स्कन्दे प्रसारितकरे ततः
  जयति स्मितमुद्भूतं शिवयोरेकदेहयोः ..

२ एकतोमणिमञ्जीर क्वाणाहूतसितच्छदम
  अन्यतोनूपुराहीन्द्रफूत्कारकृततद भयम ..

३ गीर्वाणपॄतनापालं बालं लालय देकतः .
   उत्सङ्गे गणसम्राजमर्भकं बिभ्रदन्यतः ..

४ विडम्बित ब्रह्मचारि कोकैक स्तनमेकतः .
   कवाटर्थनिभं बिभ्रद्वक्षः केवल मन्यतः ..

५ सेनान्यास्वादितस्तन्य मनुफूत कुर्वतैकतः .
   फूत्कारमुखरं नागमुग्रं जाग्रतमन्यतः ..

६ एकतोदोर्लतांबिभ्रऽमृणाळ श्री विडम्बिनीम .
   शुक्रशुण्डालशुण्डाभंचण्डं दोर्दण्डमन्यतः ..

७ कुत्राप्यविद्यमनेऽपि वन्दनीये तदा तदा
   परस्पर करस्पर्शलोभतो विहिताञ्जलि .. 

८ शक्रनीलसवर्णत्वाद भागयोरुभयोरपि .
  ऊर्ध्वाधराङ्गसापेक्ष सन्धिज्ञानगलस्थम ..

९  एकतः कैरव श्रेणी निद्रामोचन लोचनम
   अन्यतः कमलावास क्षणाधायक वीक्षणम ..

१० एकतश्चक्षुषा चारुतोरणाधीत विभ्रमम .
   अन्यतः पाणिपाधोजे खेलतो मृगबालतः ..

११ एकतोभालफलके काश्मीरेण विशेषितम .
   अन्यतोऽर्थेक्षणेनैरतिभ्रूविभ्रमद्रुहाः ..

१२ एकतःशीतलालोकं साधुलोकशिवङ्करम 
   अन्यतः प्रज्वलत प्रेक्षं दुष्टगोष्टी भयङ्करम .. 

१३ एकतोमणिताटङ्क प्रभाधौत कपोलकम
   अन्यतः कुण्डलीभूत कुण्डलीभूत कुण्डली ..

१४ एकतः कुन्तलान बिभ्रदिन्द्र नीलोपमद्युतीन .
   अन्यतः पावकज्वाला पाटलांशुच्छटाजटाः ..

१५ एकतः केशपाशेन कीर्णेनोरसिभासुरम .
   अन्यतो लम्बमानस्य भोगिनो हरताश्रियम .. 

१६ अवतं सितमम्लान पारिजातस्रजैकतः
   विमलोल्लोलमालिन्या  विभुधापगयान्यतः .. 

१७ रौप्याचलकृतावासं प्राप्यं युक्तेन चेतसा .
    वस्तुरामापुमाकारं हृदिसन्निदधातुमे .. 

१८ कान्तार्थ विग्रहेमातर्जटार्थश्चिकुरास्तव .
    दधत्यदभ्रसन्ध्याभ्र युक्तकालाभ्र विभ्रमम ..

१९ दम्पत्योर्युवयो रेषलोपो यन्नास्ति शैलजे .
     वामम पार्श्वं विभोश्शेतुं दातुं ते दक्षिणः करः .. 

२० लोके स्त्रीस्तनयुग्मेन पुष्णात्येकं सुतं नवा
   स्तनेनैकेन शर्वाणि!पुष्णासित्वं जगत त्रयम .. 

२१ खिद्यन्ति योषितः कुक्षौ वहन्त्योर्भकमेककम.
    अर्थकुक्षौ दधासित्वं त्रिलोकीमम्ब!लीलया ..

२२ अनुरूपाशिवस्यत्वमनुरूपः शिवस्तव .
    अलङ्कारोऽनुरुपो वमलङ्कारोऽर्भकः शशी .. 

२३ तवैव तव देहंशो हरस्यैवहरस्य यः .
    प्राणास्तु जगतां धात्रि!हरस्यत्वम हरस्तव .. 

२४ अविभक्तं भवानि!स्वम भवस्य तवचोभयोः .
    सकृत सकरुणं चेतः सङ्कल्पयतु नश्शिवम ..

२५ भवस्य भागमुत्सृज्यभवानी भागमात्मनः .
   भजत्वनुष्टु भामासां सृष्टानां नारसिंहिना ..