किरदिवामृतं 
किरणमालया 
जयति तत्स्मितं 
शिववधूस्मितम    (५५१)

तव पदंपरे 
मम गुहांतरे 
स्फुरतु सर्वदा 
विकसितं मुदा    (५५२) 

पदमथोऽंबुजा 
न्नखिल भिद्यते 
मदनविद्विषः 
सदनराज्ञि ते    (५५३) 

विभुतयोररी 
कृत बहूद्भवौ 
विदधतुर्जगत 
त्रयमिदं शिवौ    (५५४) 

तवतु खेलने 
नलिन जा.म्डकम 
गिरिशवल्लभे 
भवति कंदुकम    (५५५)

सकलमस्त्यु मे 
सदभय.म्करे 
तव करेपरे 
किमपि नो नरे    (५५६) 

किमिव वर्ण्यतां 
क शशिकु.म्डला 
उडुमणि स्रजा 
प्रविलसद्गला    (५५७)

भणनिरंतरं 
बहुगुणामुमाम 
गतभयं विधे-
ह्यमलवाणि माम    (५५८)

अवजहीहिवा 
ननुभजाम्यहम 
भुवनभर्त्रि ते 
चरणमन्वहम    (५५९) 

गणपतेः शिरः 
कमलचु.म्बिनी 
भवतु गोपति- 
ध्वजकुटु.म्बिनी    (५६०) 

दहरमज्जनं 
विदधतं जनम 
परमदेवते 
नयसि धामते    (५६१)

जननि विज्ञता 
भवतु धीमताम 
अनुभवस्तुते 
करुणयासताम    (५६२)

अचलयाधिया 
हृदिगवेषणम 
वृषहयप्रिया 
नगरशोधनम    (५६३)

नविजहामिते 
चरणनीरजम
अवनि धीमता 
मव नवानिजम    (५६४)

पदमुमे.मऽब ते 
हृदि विचिन्वते 
फलितमस्तकाः 
परमदेवते    (५६५) 

स्वयमनाय ये 
सकल धात्र्यसि 
निजमहिम्निसा 
त्वमयि तिष्ठसि    (५६६)

स्थिति मसादयं 
स्तवपदांबुजे 
विधिमधिक्षिपत
यलसधीर जे    (५६७)

स्यतु मदापदं 
शिववधूपदम 
यदृषयो विधुस 
त्रिभुवनास्पदम    (५६८)

गुणगणं गृणं 
स्तवशिवेशिवम 
गतभयोऽभवं
मदमितो नवम    (५६९) 

तवकृपावशात 
तदिदमव्यये 
जननि नः प्लुति 
स्तव यद.म्घ्रये    (५७०)

नयनदृश्ययो 
रयि यदंतरम 
तदमरस्तुते 
तववपुःपरम    (५७१)

अहमितिस्मृतिः 
क्वनु विभासते 
इति विचोदयन 
महमलीयते    (५७२) 

अमृतसंगके 
सुखचिदात्मके 
मति मदर्थिते 
जननि धाम्निते    (५७३)

अयि मुदास्पदं 
स्पृशति ते पदम 
श्वसितयात्रया 
सततदृष्टया    (५७४)

धधतु सत्कवेर 
गणपते रिमाः 
नगभुवोमुदं 
नरमनोरमाः    (५७५)