अन्धतमसं शशिविभामभिदधाना
कान्तिमलमास्य कमलस्य विदधाना |
अन्धक विरोधि-दयिता-स्मित-लवश्रीर्-
भातु भुवनस्य सकलस्य कुशलाय ||  १

बाहि विविधाकृतिमती द्विज-समूहे 
पाहि गतिहीनमखिलेश्वरि! कुलं नः |
देहि बहुकालभजकायपरमेतं
याहि नगनन्दिनि! यशः शशिवलक्षम् || २

वारयति घोरतर पातक समूहं
वर्धयति धर्ममपि शर्मकरमन्ते |
किङ्कर-जनस्य न किमावहति भव्यं
शङ्कर-पुरन्ध्रि! तव पाद-परिचर्या || ३

यस्य मनुजस्य हृदयेऽस्ति सदये! ते
नाकचर सेव्यमयि पाद-सरसीजम् |
तं भजति पद्ममुखि! पद्मवन-वासा
लाभ-भवने भवतु नामरपुरोधाः || ४

यद्यखिल मौनिगण गीत गुणजालं
कालभयहारि करुणारस मरन्दम् |
अद्रितनयाङ्घ्रि-जल जन्म-हृदये स्या-
दष्टम-गतोऽपि विदधातु रविजः किं? || ५

लेख ललना कचसुमैः कृत बलिं ते
यो भजति पादघृणिमालिन मनस्ते |
निस्तरति नूनमयमस्तमित मोहः
शोक तिमिरं सकल-लोकगण-मातः || ६

शितकर-दर्पहर वक्त्रजलजाते
शितगिरि-नन्दिनि! तवाङ्घ्रिजलजातम् |
यः स्मरति देवि! हृदि विस्मरति सोऽयं
विष्टपमशेषमपि कष्ट-तति-मुक्तः || ७

सक्तिरयि यस्य तव पाद-सरसी ते
शक्तिधरमात रनलाक्ष गृहनाथे |
पूर्णशशिजैत्रमुखि! पुण्यपुरुषोऽसौ
स्वर्णशिखरीव बुधलोक शरणं स्यात् || ८

वैरिगण निर्दलन खड्गवरपाणे!
वाससि पदोर्दशन-वाससि च शोणे!	|
नेत्रमिष पावक विशेषित ललाटे!
पापमखिलं जहिमृगाधिपति-घोटे! || ९

वेदचय वेदिजनवाद विषयस्य
प्रतियुत लोकतति शोकशमनस्य |
वेतन-विवर्जित भटोऽयमहमङ्घ्रेः
शितकरपोतधर पुण्यवनिते ते || १०

कार्यमयि मे किमपि कार्यपटु बुद्धेः
पाद सरसीजयुगली परिजनस्य |
अम्ब! वद जम्भरिपु गीत गुणजाले!
शुम्भकुल-नाशकरि! शम्भुकुलयोषे || ११

त्वं यदि शिलावदयि नो वदसि कृत्यं
नास्ति तव राज्य पटुबुद्धिरिति सत्यम् |
आदिश यथार्ह करणीय कृति नित्यं
राज्ञि! भुवनस्य चरणाम्बुरुह भृत्यम् || १२

पञ्चसु विहाय मनसः किमपि सङ्गं
पुत्त्रजन मित्रजन बान्धव वधूषु |
एष भजते जननि! पादजलजं ते
पालय नु मुञ्च नु तवोपरि स भारः || १३

वज्रधरमुख्य सुरसञ्चय किरीट
स्थापित महार्घमणि-रञ्जित नखाय |
जीवितमदायि जगदीश्वरि! मदीयं
पादजलजाय तव पालयनुमा वा || १४

देहि जगदीश्वरि! न वा मदभिलाषं
पाहि करुणावति! न वा कुलमिदं नः |
शूलधरकामिनि! सुरासुर-निषेव्यं
पादकमलं तवपरे न विजहामि || १५

पासि किल पादयुगकिङ्कर समूहं
हंसि किल पापततिमापदि नुता त्वम् |
दन्तिवदन प्रसु? वदन्ति मतिमन्तो
नानृतमिदं भवतु, नाकिजन वर्ण्ये || १६

शक्रमुख देवतति-वन्दित विसृष्टे!
वक्रघन केळि! चरणे तव लुठन्तम् |
आपदि निमग्नमिममाश्रितमनाथम्
नन्दिहयसुन्दरि! न पालयसि केन? || १७

घोषमयमम्ब! विदधाति पदलग्नो
नावसि पुराणि किमु नारि बधिरासि? |
वन्दि सुरबृन्द नुति भाषित हृतं वा
कर्णयुगलं तव कपालिकुल योषे! || १८

अम्ब! भव बिम्ब फलकल्प रदचेले!
सम्बरसपत्न बलकारि बहुलीले!  |
प्रागमृतभानु मुकुटस्य मदयित्री
तं कुरततः परमुरीकृत मदर्थम् || १९

निर्मल सुधाकर कलाकलित मस्ते
धर्मरत पालिनि! दयावति! नमस्ते
एतमवदेवि! चरणाम्बुरुह-बन्धुं
शित-धरणीधर-सुते! गमयनान्धुम् || २०

अद्रिकुलपालक कुलधवज पताके!
भद्रगजगामिनि! दरिद्रमयिमत्या |
क्षुद्रमिव शोच्यमिमङ्घ्रि जलजाप्तं
रुद्रदयिते! जननि! पाहि न जहीहि || २१

अस्तु तव पाद कमले स्थितिरजस्रं
नाऽस्ति परदुःखविवशे हृदि तु शान्तिः |
अस्तु करुणोमयमस्तु मतिलोपः
कष्टमिदमम्ब! मम भूरि परिशिष्टम् || २२

दुःखसुख भेद-रहिता न मतिरासीत्
साधुखल भेद-रहिता न मतिरासीत् |
भाग्यमिति मान्यमथवा मम तदेतन्-
मातरिह सङ्घ भजने यदवकाशः || २३

अस्तु मम खेदमतिरस्तु मम पक्षो
यत्नपरताऽस्तु मम माऽस्तु च विमोक्षः |
मोक्षमयि वेद्मि कुलक्ष्ट-तति मोक्षं
प्रेषय सकृत् तव महेश्वरि! कटाक्षम् || २४

शक्वर-गणेन मुखरेऽत्र गणनाथे
विष्णु यशसीशवधु! जिष्णुमुखवन्द्ये! |
अम्ब! करुणां कुरु शिवङ्करि! निरङ्क
स्वच्च किरणार्भक विभूशित ललाटे || २५
न्मा