सप्तम-शतके तृतीय-स्तबकः 
(सप्तविंश-स्तबकः)


विधुन्वन् ध्वान्तानि प्रतिदिश मधर्मं परिहरं
च्छ्रियं व्यातन्वानस्सपदिशमयन दुःखपटलम् |
सहस्राराम्भोजे द्रवमसदृशं मे प्रजनयन्
प्रचण्डायाश्चण्ड्याप्सितहसितलेशो विजयते ||   १

अरिणां शीर्षेषु ज्वलित दवकीलीन्द्रसदृशं
विनम्राणां शीर्षे श्वमृतकर बिन्भेनतुलितम् |
विरोधिध्वान्तानां तरुण तरणि प्राभवहरं
प्रचण्डायाश्चण्ड्याश्चरण मसतां हन्तु विभवम् ||   २

भजेभासां शालां निखिलधिषणानां जनिभुवं
बालानामाधात्रीं निखिलभुवनेन्द्रस्य दयिताम् |
भजन्ते यांगीतैर्मधुसमयमाद्यात् पिकवधू 
कलालापा हृद्यैर्हयवदन पङ्केरुह दृशः ||   ३

ज्वलन्ती तेजोभिर्महिष मधने यातवतनु-
र्लसन्ती लावण्यैर्गिरिश रमणे यातवतनुः |
विना क्रोध प्रीति नकिमपि तयोर्भेदकम भूत्
तयोराद्या दुर्गाभवति ललितान्या मुनिसुते ||   ४

सहस्रं भानूनां भवति दिवासानामधिपतेः
सहस्रं शीर्षाणां भवति भुजगानामधिपतेः |
सहस्रं नेत्राणां भवति विबुधानामधिपतेः 
सहस्रं भाभूनां भवति सममे हैमवति! ते!   ५

प्रसन्नोवक्त्रेन्दु र्नचनयनयोः कोऽप्यरुणिमा
नकम्पोबिम्बोष्ठे स्मितमपि लसत् काश विशदम् |
सरोजाभः पाणिः किणविरहितः कोमलतमः 
ज्वलच्छूलं त्वासीज्जननि! ताशुम्भायभयदम् ||   ६

वधे शुम्भस्यासीत् तवजननि! याकाचनतनुः
दधानाग्र्याः शक्तीः शशिकिरणसारोपमरुचिः |
इमां ध्यायं ध्यायं स्मरहरसखि व्याकुलमिदं
मनोमेविश्रान्तिं भजति भजतां कल्पलतिके ||   ७

यैत्वं संसारे पटु रसिसवित्रि! त्रिजगत
स्तदेतत् त्वांयाचे सरसिरुह गर्भादिविनुते!
इमेमे पाप्मानोभगवति! वदन्तो भविधा
स्तेषु प्रख्यातं प्रतिभयतमं दर्शयबलम् ||   ८

बिभेदोरः क्रोधात् कनककशिपो रब्धितनया!
कुचग्रावोल्लीढैअति शितशिखैर्यः किलनखैः |
त्वयादत्ताशक्तिर्नरहरि शरीरायजगतां
विनेत्रेपुंसेऽस्मै जननि! रणरङ्गस्थलरमे ||   ९

अजेयस्त्रैलोक्य प्रकटितपताकः फलभुजां
बिडौ जायत कारागृहपरिचया पङ्क्तिवदनः |
सहस्रारं साक्षाद्धृत नर शरीरं तमजयत्
तवैवावेशेन प्रियपरशुरम्ब! द्विजशिशुः ||   १०

त्वदीयासाशक्ति स्ककल जगदन्तेऽप्यनलसा
पुराकार्यस्यान्ते तनय मयिहित्वानृपरिपुम् |
अविक्षत् काकुत्थ्सं दशमुख कुलोन्माथविधये 
सहस्रांशुं हित्वा शशिन मिवघस्रेगलतिभा ||   ११

हते लोकव्रा ते भगवति! भवत्येव सपुरा 
मरिह कीर्तिंलब्धुं चतुरमति रायातिसमये |
त्वयालोकत्राणे जननि! रचिते राक्षसवधात.त
यशोऽवाप्तुं विष्णुर्मिलतिचकुतोऽप्येषनिपुणः ||   १२

स्वरूपं ते वज्रं वियति रजसां सूक्ष्ममहसा
मुपाधिस्ते स्तोमोभवति चपलाकाऽपितनुभा |
अरुद्धा तेव्याप्तिर्बलमखिलदत्तं बलनिधेः 
सहस्रांशः स्वस्यप्रभवसि समस्तस्यच शिवे! ||   १३

यतः कालव्याजात् पचसि भुवनं वैद्युतमहः-
प्रभावात् कालीं त्वामयि विदुरतः पण्डितवराः |
प्रभोः शस्त्रं बूत्वादहसि यदरीन् वज्रवपुषा
प्रचण्डां चण्डीं तद भगवती! भणन्त्यक्षयबले ||   १४

अयित्वामेवेन्द्रं कथयति मुनिः कश्चिदजरे!
त्वयाशस्त्राढ्यंतं भणतितु परस्तत्त्वविदृषिः |
युवां मातापुत्रौ भगवति! विभाज्यौ नभवतः 
ततोधीनां द्वेधा विबुधजनगोष्ठीषु गतयः ||   १५

विकुर्वाणाविश्वं विविधगुणभेदैः परिनमद् 
विधुन्वानाभावान् भुवनगतिरोधाय भवतः |
वितन्वानाशर्वं चलवदचलं काचिदवितुं
विचिन्वानाजन्तोः कृतलवमपीशा विजयते ||   १६

प्रभाभानोर्यद्वद् भवसि सकलस्यापि तपनी
प्रचण्डाशक्तिः सत्यखिल भुवनेशस्य तपतः |
सुधांशो र्ज्योत्स्नेव प्रमदयसि चेतः प्रविशतो 
भवन्ती भूतादेर्दहरकुहरं मोदलहरी ||   १७

प्रचण्डा गौरीवा त्वमसि वसुरुद्रार्कविनुते!
स भीमः शम्भुर्वा विभुरभयदः पादसुहृदाम् |
तयोरेकं रूपं तव सहविभोः खेलति मह
त्य मुष्मिन्नाकाशे धवलमहसि क्रीडति परम् ||   १८

विभक्ता याद्वेधात्वमपि गगनेशीतमहस
स्तथारम्ये बिंबे ज्वलित ललितस्त्री तनुविधा |
तयोर्ब्रूबीशाने जननि! कतमामे जननभूः 
पुराजन्मन्यासी द्विकटमथवोग्रैवसुषुवे ||   १९

दृशोर्भेदाद् दृष्टेर्नभवति भिदाकाऽपि करयो
र्नभेदाद् भिन्नंस्यात् कृत, मभि विमानैक्य वशतः |
भिदातन्वोरेवं नभवति भिदायै तव शिवे!
वियदेशे चण्ड्यां सितमहसि गौर्यां च भवती ||   २०

तवच्छिन्न शीर्षं विदुरखिलधा त्र्यागमविदो
मनुष्याणांमस्ते बहुलतपसायद् विदलिते |
सुषुम्नायां नाड्यां तनुकरणसम्पर्करहिता 
बहिश्यक्त्यायुक्ता विगतचिर निद्रा विलसति ||   २१

उताहोतन्वङ्ग्यां भृगुकुल विधात्र्यां पितृगिरा
तनूजेनच्छिन्ने शिरसि भयलोलाक्षिनलिने |
न्यधास्ते जोभीमं निजमयि यद क्षुद्रमनघं
तदाहुस्त्वामम्ब! प्रथिचरिते कृत्तशिरसम् ||   २२

हुतं धाराज्वाला जटिल चटुले शस्त्रदहने
तपस्विन्याः कायं भगवति! यदाम्ब! त्वमविशः |
तदातस्याःकण्ठ प्रगलदसृजः कृत्तशिरसः 
कबन्धेन प्राप्तो भुवनविनुतः कोऽपि महिमा ||   २३

निधेस्त्वत्तो हृत्वा भगवति! नलज्जे भुविसृजन्
रसक्षोणीर्वा स्त्वदमलयशस्सौरभजुषः |
नृपोद्यनात् सूनोत्कर मनहरन् भक्ति नटनं
वितन्वानस्तन्मै मुहुरुपहरं स्तेवक इव ||   २४

दधानास्सन्तोषं मनसि सुकवीनामतितरां
दधानाः प्रत्यग्रं विबुधसदसे भावमलघुम् |
कुलानामुत्साहुं सपदि विदधाना श्शिववधू 
पराणां शोभन्तां जगति शिकरिण्योगणपतेः ||   २५


|| इति उमा-सहस्रे सप्तविंश-स्तबकः ||