शमयतु पापं, दमयतु दुःखं हरतु विमोहं, स्फुटयतु बोधम् . प्रथयतु शक्तिं मन्दं हसितं मनसिज-शासन-कुल सुदृशो नः .. १ आर्द्रा दयया पूर्णा शक्त्या दृष्टि-वशं वद विष्टपराजा . अखिल-पुरन्ध्री-पूज्या नारी मम निश्शेषां विपदं हरतु .. २ शुद्ध-ब्रह्मणि मोदो दैवं तत्र सिसृक्षति कामो दैवम् . सृजति पदार्थान् दृष्टिर दैवं तान् बिभ्राणो महिमा दैवम् .. ३ विकृतौ विकृतौ प्रकृतिर्दैवं विषये विषये सत्ता दैवम् . दृष्टौ दृष्टौ प्रमतिर्दैवं ध्याने ध्याने निष्ठा दैवम् .. ४ स्फूर्तौ स्फूर्तौ माया दैवं चलने चलने शक्तिर दैवम् . तेजसि तेजसि चक्षुर्दैवं शब्दे शब्दे वाणी दैवं .. ५ हृदये हृदये जीवद्दैवं शीर्षे शीर्षे ध्यायद्दैवम् . चक्षुषि चक्षुषि राजद्दैवं मूले मूले प्रतपद्दैवम् .. ६ अभितो गगने प्रसरद्दैवं पृथिवी लोके रोहद्दैवम् . दिनकर बिंबे दीप्यद्दैवं शितकर बिंबे सिञ्चद्दैवम् .. ७ श्रावं श्रावं वेद्यं दैवं नामं नामं राध्यद्दैवम् . स्मारं स्मारं धार्यं दैवं वारं वारं स्तुत्यं दैवम् .. ८ शृतिषु वटूनां ग्राह्यं दैवं गृहिणामग्नौ तर्प्यं दैवम् . तपतां शीर्षे पुष्टं दैवं यतिनां हृदये शिष्टं दैवम् .. ९ नमता पुष्पैः पूज्यं दैवं कविना पद्याराध्यं दैवम् . मुनिना मनसा ध्येयं दैवं यतिना स्वात्मनि शोध्यं दैवम् .. १० स्तुवतां वाचो विदधद्दैवं स्मरतां चेतः स्फुटयद्दैवम् . जपतां शक्तिं प्रथयद्दैवं नमतां दुरितं दमयद्दैवम् .. ११ वाचो विनयद् वह्नौ दैवं प्राणास् विनयद विद्युति दैवम् . कामान्विनयच्चन्द्रे दैवं बुद्धीर्विनयत् सूर्ये दैवम् .. १२ हृदये निवसद् गृह्णद्दैवं वस्तौ निवसद्विसृजद्दैवम् . कण्ठे निवसद् प्रवदद्दैवं कुक्षौ निवसत्प्रपचद्दैवम् .. १३ देहे निवसद्विलचद्दैवं पञ्चप्राणाकारं दैवम् . भागिसमस्तस्यान्ने दैवं स्वाहाकारे तृप्यद्दैवम् .. १४ बिभ्रन्नारी वेषं दैवं शुभ्रदरस्मित विभ्राड्दैवम् . अभ्रमदापः चिकुरं दैवं विभ्रम वासस्थानं दैवम् .. १५ शीत ज्योतिर्वदनं दैवं रुचिबिन्दूपम रदनं दैवम् . लावण्यामृत सदनं दैवं स्मररिपुलोचन मदनं दैवम् .. १६ लक्ष्मी वीचिमदलिकं दैवं प्रज्ञावीचिमदीक्षं दैवम् . तेजोवीचिमदधरम दैवं सम्मदवीचिमदास्यं दैवम् .. १७ करुणोल्लोलित नेत्रं दैवं श्रीकाराभ श्रोत्रं दैवम् . कुसुम सुकोमल गात्रम दैवं कविवाग्वैभव पात्रं दैवम् .. १८ हिमवति शैले व्यक्तं दैवं शितगिरि-शिखरे क्रीडद्दैवम् . तुम्बुरु नारद गीतं दैवं सुर मुनि सिद्ध ध्यातं दैवम् .. १९ क्वचिदपिरतिशत ललितं दैवं क्वचिदपि सुतरां चण्डं दैवम् . भक्त मनोनुगवेषं दैवं योगि (युक्त) मनोनुग विभवं दैवम् .. २० चरिते मधुरं स्ववतां दैवं चरणे मधुरं नमतं दैवम् . अधरे मधुरं शम्भोर्दैवं मम तु स्तन्ये मधुरं दैवं .. २१ भुज-भृत विष्टप भारं दैवं पद धृत सम्पत्सारं दैवम् . लालित निर्जर वीरं दैवं रक्षित सात्त्विक धीरं दैवम् .. २२ चिच्चक्त्यात्मकमधि-तनु दैवं तटिदाकृत्यधि भूतं दैवम् . शृतिषु शिवेति प्रथितं दैवं जयति जगत्त्रय विनुतं दैवम् .. २३ रमण महर्षेरन्ते वासि मध्यम पुत्त्रो नरसिंहस्य वाशिष्ठोऽयं मरुतां मातु- र्गणपतिरङ्घ्रिं शरणमुपैति .. २४ त्रिभुवन भर्तुः परमा शक्तिः सकल सवित्री गौरी जयति तन्नुति-रेखा गणपति रचिता पादाकुलक-प्रान्ता जयति .. २५