|| श्री विष्णु-पुराणान्तर्गत श्री-स्तुतिः || सिंहासन गतश्शक्रः - सम्प्राप्य त्रिदिवं पुनः | देवराज्ये स्थितो देवीं - तुष्टावाब्जकरां ततः || इन्द्र उवाच नमामि सर्वलोकानां - जननीं अब्धि-सम्भवाम् | श्रियं-उन्मित्र पद्माक्षीं - विष्णु-वक्षस्थल-स्थिताम् || पद्मालयां पद्मकरां - पद्मपत्र-निभेक्षणाम् | वन्दे पद्ममुखीं देवीं - पद्मनाभ-प्रियां-अहम् || त्वं सिद्धिस्त्वं स्वधा स्वाहा - सुधा त्वं लोकपावनी | संध्या रात्रिः प्रभा भूतिर् - मेधा श्रद्धा सरस्वती || यज्ञविद्या महाविद्या - गुह्यविद्या च शोभने | आत्मविद्या च देवि त्वं - विमुक्ति-फल-दायिनी || आन्वीक्षती त्रयी वार्ता - दण्डनीतिस्त्वमेव च | सौम्यासौम्यैर् जगद्रूपैः - त्वयैतद् देवि पूरितम् || का त्वन्या त्वां-ऋते देवि - सर्वयज्ञमयं वपुः | अध्यास्ते देवदेवस्य - योगि-चिन्त्यं गदा-भृतः || त्वया देवि परित्यक्तं - सकलं भुवनत्रयम् | विनष्ट-प्रायं अभवत् - त्वयेदानीं समेधितम् || दाराः पुत्रास्तथागार - सुहृद्-धान्य धनादिकम् | भवत्येतं महाभागे नित्यं - त्वद्-वीक्षणानृणाम् || शरीरारोग्यम्-ऐश्वर्यम् - अरिपक्ष-क्षयस्सुखम् | देवि त्वद्दृष्टि दृष्टानां - पुरुषाणां न दुर्लभम् || त्वं माता सर्वलोकानां - देवदेवो हरिः पिता | त्वयैतद्-विष्णुना चाम्ब - जगद्-व्याप्तं चराचरम् || मा नः कोशं तथा गोष्ठं - मा गृहं मा परिच्छदम् | मा शरीरं कळत्रं च - त्यजेथाः सर्वपावनी || मा पुत्रान् मा सुहृद्-वर्गान् - मा पशून् मा विभूषणम् | त्यजेथा मम देवस्य - विष्णोर्वक्ष-स्थलालये || सत्येन शौच-सत्याभ्यां - तथा शीलादिभिर्-गुणैः | त्यज्यन्ते ते नराः सद्यः - संत्यक्ता ये त्वयामले || त्वयावलोकिताः सद्यः - शीलाद्यैः सकलैर्-गुणैः | धनैश्वर्यैश् च युज्यन्ते - पुरुषा निर्गुणा अपि || स श्लाघ्यः स गुणी धन्यः - स कुलीनः स बुद्धिमान् | स शूरः स च विक्रान्तः - यं त्वं देवि निरीक्षसे || सद्यो वैगुण्यम्-आयान्ति - शीलाद्यास्सकला गुणाः | पराङ्मुखी जगद्धात्री - यस्य त्वं विष्णुवल्लभे || न ते वर्णयितुं शक्ता - गुणान् जिह्वापि वेधसः | प्रसीद देवि पद्माक्षि - मां स्मांस्-त्याक्षीः कदाचन || श्री पराशरः : एवं श्री संस्तुता सम्यक् - प्राहादृश्या शतक्रतुम् | पश्यतां सर्वदेवानां - सर्वभूत-स्थिता द्विजा || श्रीरुवाच : परितुष्टास्मि देवेश - स्तोत्रेणानेन ते हरे | वरं वृणीष्व यस्त्विष्टो - वरदाऽहं तवागता || इन्द्र उवाच : वरदा यदि मे देवि - वरार्हो यदि चाप्यहम् | त्रैलोक्यं न त्वया त्याज्यं - एष मेऽस्तु वरः परः || स्तोत्रेण यस्त्वथैतेन - त्वां तोष्यति अब्धि-संभवे | स त्वया न परित्याज्यः - द्वितीयोऽस्तु वरो मम || श्रीरुवाच : त्रैलोक्यं त्रिदश-श्रेष्ठ - न संत्यक्ष्यामि वासव | दत्तो वरो मयाऽयं ते - स्तोत्राराधन तुष्टया || यश्च सायं तथा प्रातः - स्तोत्रेणानेन मानवः | मां तोष्यति न तस्याहं - भविष्यामि पराङ्मुखी || श्री पराशरः : एवं ददौ वरो देवी - देवराजाय वै पुरा | मैत्रेय! श्रीर्-महाभागा - स्तोत्राराधन तोषिता || भृगोः ख्यात्यां समुत्पन्ना - श्रीः पूर्वमुदधेः पुनः | देवदानव यत्नेन - प्रसूताऽमृत-मन्थने || एवं यदा जगत्-स्वामी - देवदेवो जनार्दनः | अवतारं करोत्येषा - तदा श्रीस्तत्-सहायिनी || पुनश्च पद्मा सम्भूता - ह्यादित्योऽभूद्-यदा हरिः | यदा च भार्गवो रामः - तदाऽभूद् हरिणी त्वियम् || राघवत्वेऽभवत् सीता - रुक्मिणी कृष्णजन्मनि | अन्येषु चावतारेषु - विष्णोरेषानपायिनी || देवत्वे देवदेहेऽयं - मनुष्यत्वे च मानुषी | विष्णोर्-देहानुरूपां वै - करोत्येषात्मनस्तनुम् || यस्त्वेतत् श्रुणुयाज्जन्म - लक्ष्म्या यश्च पठेन्नरः | श्रियो न विच्युतिस्तस्य - गृहे यावत् कुलत्रयम् || पठ्यते येषु चैवैषा - गृहेषु श्रीकथा मुने | अलक्ष्मीः कलहाधारा - न तेष्वास्ते कदाचन || एतत् ते कथितं सर्वं - यन्मां त्वं परिपृच्छसि | क्षीराब्धौ श्रीर्यथा जाता - पूर्वं भृगुसुता सती || इति सकल विभूत्यवाप्ति-हेतुः स्तुतिरियं इन्द्र-मुखोद्गता हि लक्ष्म्याः | अनुदिनमिह पठ्यते नृभिर्-यैः वसति न तेषु कदाचिदपि-अलक्ष्मीः ||